यहाँ सीबीएसई दसवीं कक्षा की संस्कृत पाठ्यपुस्तक ‘शेमुषी’ के सभी प्रत्यययुक्त शब्द पाठवार दिये गये हैं। सभी पाठों में त्व, तल्, मतुप्, ठक्, टाप्, ङीप् प्रत्ययों को क्रमवार रखा गया है। पाठों में से उदाहरण दिये गये हैं, जो कि परीक्षा की दृष्टि से अत्यन्त उपयोगी हैं।
दशमीकक्षा की पाठ्यपुस्तक में प्रयुक्त प्रत्यययुक्त शब्द
पाठः – १ शुचि पर्यावरणम्
रमणीय + टाप् = रमणीया | समीरचालित + टाप् = समीरचालिता | वरणीय + टाप् = वरणीया |
मिलित + टाप् = मिलिता | पाषाण + ङीप् = पाषाणी | समाविष्ट + टाप् = समाविष्टा |
अनन्त + टाप् = अनन्ता |
- ललितलतानां माला रमणीया ( रमणीय+टाप् )
- कुसुमावलिः समीरचालिता ( समीरचालित+टाप् ) स्यात् मे वरणीया ( वरणीय+टाप् )
- नवमालिका रसालं मिलिता ( मिलित+टाप् )
- पाषाणी ( पाषाण+ङीप् ) सभ्यता निसर्गे स्यान्न समाविष्टा ( समाविष्ट+टाप् )
- यानानां पङ्क्तयः अनन्ताः ( अनन्त+टाप् )
पाठः २ – बुद्धिर्बलवती सदा
बलवत् + ङीप् = बलवती | चलित + टाप् = चलिता | व्याघ्रमार + ङीप् = व्याघ्रमारी |
विमुक्त + टाप् = विमुक्ता | दृष्ट + टाप् = दृष्टा | बुद्धि + मतुप् = बुद्धिमान् |
प्रहरत् + ङीप् = प्रहरन्ती | चिन्तितवत् + ङीप् = चिन्तितवती | बुद्धि + मतुप् = बुद्धिमती |
धूर्त + टाप् = धूर्ता | आक्षिपत् + ङीप् = आक्षिपन्ती | तर्जयत् + ङीप् = तर्जयन्ती |
धावित + टाप् = धाविता | भयङ्कर + टाप् = भयङ्करा | मुक्त + टाप् = मुक्ता |
- बुद्धिः सदा बलवती ( बल+मतुप् / बलवत्+ङीप् ) भवति ।
- बुद्धिमती ( बुद्धि+मतुप् ) पुत्रद्वयोपेता ( पुत्रद्वयोपेत+टाप् ) पितुर्गृहं प्रति चलिता ( चलित+टाप् )
- भयङ्करा ( भयङ्कर+टाप् ) व्याघ्रमारी ( व्याघ्रमार+ङीप् ) तूर्णं धाविता ( धावित+टाप् )
- सा बुद्धिमती ( बुद्धि+मतुप् ) व्याघ्रजात् भयात् विमुक्ता ( विमुक्त+टाप् ) ।
- लोके अन्यः बुद्धिमान् ( बुद्धि+मतुप् ) भयात् मुच्यते ।
- मया सा कलहायमानौ पुत्रौ प्रहरन्ती ( प्रहरत्+ङीप् ) दृष्टा ।
- सा जम्बुकम् आक्षिपन्ती ( आक्षिपत्+ङीप् ) अङ्गुल्या तर्जयन्ती ( तर्जयत्+ङीप् ) उवाच ।
- कुत्र आस्ते सा धूर्ता ( धूर्त+टाप् ) इति जम्बुकः अपृच्छत् ।
- बुद्धिमती शृगालेन पुनः आयान्तं व्याघ्रं दृष्ट्वा चिन्तितवती ( चिन्तितवत्+ङीप् )
Click here for important MCQ’s
पाठः ४ – शिशुलालनम्
महत् + तल् = महत्ता | अतिशालीन + तल् = अतिशालीनता | महत् + त्व = महत्त्वम् |
विद्वस् + त्व = विद्वत्वम् | केतकच्छद + त्व = केतकच्छदत्वम् | नृप + त्व = नृपत्वम् |
कुपित + टाप् = कुपिता | अवमानित + टाप् = अवमानिता | निर्वासित + टाप् = निर्वासिता |
तपस्विन् + ङीप् = तपस्विनी | नामधेय + टाप् = नामधेया | देव + ङीप् = देवी |
सञ्जात + टाप् = सञ्जाता | भग + मतुप् = भगवान् | श्लाघ्य + टाप् = श्लाघ्या |
- अलम् अतिशालीनतया ( अतिशालीन+तल् )
- हिमकरः पशुपति-मस्तक-केतकच्छदत्वम् ( केतकच्छद+त्व ) व्रजति ।
- विद्वत्वम् ( विद्वस्+त्व ) नृपत्वम् ( नृप+त्व ) च कदाचन तुल्यं नैव भवति ।
- सा कुपिता ( कुपित+टाप् ) एवं भणति उत प्रकृतिस्था ( प्रकृतिस्थ+टाप् )
- एतयोः जननी तेन अवमानिता ( अवमानित+टाप् ) निर्वासिता ( निर्वासित+टाप् ) स्यात् ।
- सा तपस्विनी ( तपस्विन्+ङीप् ) मत्कृतेन अपराधेन स्वापत्यं निर्भर्त्सयति ।
- किं नामधेया ( नामधेय+टाप् ) युवयोः जननी ?
- तपोवनवासिनः तां देवी ( देव+ङीप् ) इति नाम्ना आह्वयन्ति ।
- इयती ( इयत्+ङीप् ) वेला सञ्जाता ( सञ्जात+टाप् )
- इयं कथा श्लाघ्या ( श्लाघ्य+टाप् )
पाठः ५ – जननी तुल्यवत्सला
दुर्बल + टाप् = दुर्बला | तुल्यवत्सल + टाप् = तुल्यवत्सला | दीन + टाप् = दीना |
पृष्ट + टाप् = पृष्टा | कृपार्द्रहृदय + टाप् = कृपार्द्रहृदया | अधिक + टाप् = अधिका |
सहज + टाप् = सहजा |
- जननी तुल्यवत्सला ( तुल्यवत्सल+टाप् ) भवति ।
- सा इन्द्रेण पृष्टा ( पृष्ट+टाप् ) ।
- दीनस्य पुत्रस्य कृते कृपा अधिका ( अधिक+टाप् ) भवति ।
- माता दीने पुत्रे कृपार्द्रहृदया ( कृपार्द्रहृदय+टाप् ) भवेत् ।
- दुर्बले सुते मातुः अभ्यधिका ( अभ्यधिक+टाप् ) कृपा सहजा ( सहज+टाप् ) एव ।
Click here for important MCQ’s
पाठः ६ – सुभाषितानि
- संपत्तौ विपत्तौ च महताम् एकरूपता ( एकरूप+तल् ) भवति ।
पाठः ७ – सौहार्द्रं प्रकृतेः शोभा
नद + ङीप् = नदी | महत् + त्व = महत्त्वम् | एतादृश + ङीप् = एतादृशी |
सज्ज + टाप् = सज्जा | सत्यप्रिय + तल् = सत्यप्रियता | भवत् + ङीप् = भवती |
क्रूर + तल् = क्रूरता | उदाहरणस्वरुप + टाप् = उदाहरणस्वरुपा | श्रुत + टाप् = श्रुता |
- वनस्य समीपे एका नदी ( नद+ङीप् ) वहति ।
- सर्वेषामेव प्रकृत्याः कृते महत्त्वम् ( महत्+त्व ) विद्यते ।
- सिंहस्य एतादृशीम् ( एतादृश+ङीप् ) दशां दृष्ट्वा पक्षिणः कोलाहलं कुर्वन्ति ।
- काकस्य सत्यप्रियता ( सत्यप्रिय+तल् ) जनानां कृते उदाहरणस्वरूपा ( उदाहरणस्वरूप+टाप् )
- बकः वराकान् मीनान् क्रूरतया ( क्रूर+तल् ) भक्षयति ।
- अकर्णधारा ( अकर्णधार+टाप् ) नौका इव भवति ।
- भवती ( भवत्+ङीप् ) सम्यक् कथयति।
पाठः ८ – विचित्रः साक्षी
रुग्ण + तल् = रुग्णता | शुभावह + टाप् = शुभावहा | विचित्र + टाप् = विचित्रा |
निहित + टाप् = निहिता |
- पुत्रस्य रुग्णताम् ( रुग्ण+तल् ) आकर्ण्य जनः तं द्रष्टुं निर्गतः ।
- विजने प्रदेशे पदयात्रा न शुभावहा ( शुभावह+टाप् )
- विचित्रा ( विचित्र+टाप् ) खलु दैवगतिः ।
- चौरः तत्र निहिताम् ( निहित+टाप् ) एकां मञ्जूषाम् आदाय पलायितः ।
Click here for important MCQ’s
पाठः ९ – सूक्तयः
कृतज्ञ + तल् = कृतज्ञता | अवक्र + तल् = अवक्रता | धर्मप्रद + टाप् = धर्मप्रदा |
सम + त्व = समत्वम् | परुष + टाप् = परुषा | धैर्य + मतुप् = धैर्यवान् |
चक्षुष् + मतुप् = चक्षुष्मान् |
- पितास्य किं तपस्तेपे इत्युक्तिः तत्कृतज्ञता ( तत्कृतज्ञ+तल् ) भवति ।
- चित्ते वाचि च अवक्रता ( अवक्र+तल् ) भवेत् ।
- महात्मानः समत्वम् ( सम+त्व ) इति कथयन्ति ।
- बुद्धिमान् धर्मप्रदाम् ( धर्मप्रद+टाप् ) वाचं वदति ।
- बुद्धिमान् परुषाम् ( परुष+टाप् ) वाचं त्यजति ।
- विद्वांसः एव चक्षुष्मन्तः ( चक्षुष्+मतुप् ) प्रकीर्तिताः ।
- मन्त्री धैर्यवान् ( धैर्य+मतुप् ) स्यात् ।
पाठः – १२ – अन्योक्तयः
भुक्त + टाप् = भुक्ता | कतम + टाप् = कतमा | उत्तम + टाप् = उत्तमा |
- राजहंसेन मृणालपटली भुक्ता ( भुक्त+टाप् )
- मीनः कतमाम् ( कतम+टाप् ) गतिं अभ्युपैति ।
- सा एव तव उत्तमा ( उत्तम+टाप् ) श्रीः अस्ति ।
Click here for important MCQ’s