...

Class 10 Sanskrit Question Paper | Pre-Board Paper With Solutions | Code 119 | Paper-1

Class 10 Sanskrit Question Paper With Solutions | Pre-Board Examinations | Code:119 Paper-1

सीबीएसई कक्षा 10 के लिये संस्कृत (कोड119) विषय का प्रश्नपत्र समाधान सहित यहाँ दिया जा रहा है। नीचे डाउनलोड बटन पर क्लिक करके आप प्रश्नपत्र की पीडीएफ़ भी डाउनलोड कर सकते हैं।

PRE BOARD EXAMINATION 

CLASS – 10th

SUBJECT-SANSKRIT (119)     M.M – 80

प्रश्नपत्र डाउनलोड करने के लिये यहाँ क्लिक करें/Click Here To Download Paper

‘क’ भागः – अपठितावबोधनम् (10 अङ्काः)

प्रश्न1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
सर्वेषु कार्येषु पात्र-अपात्रविवेकः आवश्यकः। धेनुः तृणानि स्वीकृत्य मधुरं दुग्धं प्रयच्छति। दुग्धेन जनानाम् बहु उपकारः भवति। सर्पाय वयं दुग्धं यच्छामः चेत् तत् दुग्धं विषं भवति। विषेण अनेकेषाम् अपकारः भवति। धनस्य दाने अपि तथैव विवेकः आवश्यकः। सुपात्रेभ्यः यदि वयं धनं यच्छामः ते राष्ट्रस्य समाजस्य च हितं कुर्वन्ति। दुर्जनेभ्यः यदि धनं दीयते, ते जनान् पीडयन्ति। दुर्जनः जनानाम् धनं नीत्वा तद् स्वार्थे, दुष्टकर्मणि पापे वा निवेशयति येन जनानाम् अपकारः भवति। दुष्टः केषाञ्चिदपि मानं न करोति। तस्य कर्मणा पदे-पदे जनाः अपमानं एव सहन्ते। परं सज्जनः तु सदैव राष्ट्रस्य जनस्य च हितं कृत्वा प्रसीदति। सः दु:खं सोढ्वा अपि पुष्पमिव प्रफुल्लितः भवति।
प्रश्नाः
I. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)   1×2=2अंक
(i) केन जनानाम् बहु उपकारः भवति।
(ii) सर्पाय दत्तं दुग्धम् किम् भवति?
(iii) धनस्य दाने कः आवश्यकः?
[ उत्तराणि– दुग्धेन, विषम्, विवेकः ]
II. पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्)     2×2=4अंक
(i) सुपात्राः धनं प्राप्य किं कुर्वन्ति?
(ii) धेनुः तृणानि स्वीकृत्य अपि कीदृशं दुग्धं प्रयच्छति?
(iii) सज्जनः किम् कृत्वा प्रसीदति?
[ उत्तराणि– i. सुपात्राः धनं प्राप्य राष्ट्रस्य समाजस्य च हितं कुर्वन्ति। ii. धेनुः तृणानि स्वीकृत्य मधुरं दुग्धं प्रयच्छति। iii. सज्जनः सदैव राष्ट्रस्य जनस्य च हितं कृत्वा प्रसीदति। ]
III. गद्यांशस्य समुचितं शीर्षकं लिखत।   1×1=1अंक
[ उत्तरम्– पात्र-अपात्रविवेकः/सुपात्रचयनम् इत्यादयः। ]
IV. निर्देशानुसारम् उत्तरत- (केवलं प्रश्नत्रयम्)  1×3=3अंक
(i) ‘अपकारः’ इति पदस्य किम् विपर्ययपदम् गद्यांशे प्रयुक्तम्?
(क) निस्तारः   (ख) विस्तारः   (ग) उपकारः
(ii) ‘ते राष्ट्रस्य समाजस्य च हितं कुर्वन्ति।’ अत्र क्रियापदं किम्?
(क) ते     (ख) कुर्वन्ति      (ग) हितम्
(iii) अस्मिन् अनुच्छेदे ‘कार्येषु’ इति पदस्य विशेषणपदं किम्?
(क) पात्रेषु   (ख) अपात्रेषु    (ग) सर्वेषु
(iv) ‘सहन्ते’ क्रियापदस्य कर्तृपदं किम् अस्ति?
(क) जनाः    (ख) कर्मणा    (ग) अपमानम्
[ उत्तराणि- (i) ग (ii) ख (iii) ग (iv) क ]

‘ख’ भागः – रचनात्मककार्यम् (15 अङ्काः)

प्रश्न2. भवान् हार्दिकः। भवान् प्रतिदिनं ‘चाऊमीन-बर्गर’ इत्यादिकं त्वरित-भोजनं खादति। स्वस्थभोजनस्य महत्त्वं वर्णयन्त्या अग्रजया भवन्तं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः उत्तरपुस्तिकायां लिखन्तु। 5अंक

गुरुग्रामात्,

दिनाङ्कः

प्रिय हार्दिक!

(i)____________ ।

मया मात्रा लिखितं पत्रं प्राप्तम्। तेन (ii)__________ मया ज्ञातं यत् भवान् सन्तुलितभोजनं न (iii)__________ प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। (iv)__________ भोजनं स्वास्थ्याय सम्यक् न अस्ति। यदा कदा तु अस्य (v)__________ कर्तुं शक्यते, परं प्रतिदिनं (vi)__________ सेवनं स्वास्थ्याय हानिकरम्। स्वास्थ्याय तु सन्तुलितभोजनम् एव (vii)__________ यतः ‘स्वस्थशरीरे एव स्वस्थमनसः विकासः’ भवति। अतः भवान् त्वरितभोजनस्य सेवनं (viii)__________। स्वास्थ्यवर्धकं भोजनमेव खादतु। अनेन भवान् कदापि (ix)__________न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।

भवदीया (x)__________ ।

हिमांशी

मञ्जूषा

त्वरितभोजनस्य, त्यजतु, पत्रेण, सेवनम्, ईदृशम्, ग्रहीतव्यम्, स्नेहाशीषः, सेवते, रुग्णः, अग्रजा

[ उत्तराणि- 1.स्नेहाशीषः, 2.पत्रेण, 3.सेवते, 4.ईदृशम्, 5.सेवनम्, 6.त्वरितभोजनस्य, 7.ग्रहीतव्यम्, 8.त्यजतु, 9.रुग्णः, 10.अग्रजा ]

प्रश्न3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत। 5अंक
Class 10 Pre Board Sanskrit Examination

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्च संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। 

“मम मातृभूमिः”

मञ्जूषा

पोषणम्, स्वर्गादपि, येन-येन प्रकारेण, सत्यम्, मातृभूमिः, वन्दनीया
प्रश्न4. अधोलिखितां कथां मञ्जूषायाः सहायतया पूरयित्वा उत्तरपुस्तिकायां लिखत। 5अंक

प्राचीनकाले कोऽपि (i)________ नाम वनवासी मुनिः आसीत्। सः एकदा (ii)________ उपविष्टः आसीत्। तदा तस्योपरि एका (iii)________ विष्ठाम् उदसृजत् । ततः सः (iv)________ ताम् अपश्यत्। दृष्टमात्रा एव सा बलाका (v)________ अभवत्। तद् दृष्ट्वा सः मुनिः (vi)________ अभवत्। अथ अन्यस्मिन् दिवसे सः मुनिः (vii)________ नगरे गत्वा एकस्य ब्राह्मणस्य गृहे तस्य गृहिणीं भिक्षाम् अयाचत। (vii)________ कुर्वन्ती सा तं किञ्चित् स्थातुम् अकथयत्। तदा मुनिः तां (ix)________ दृष्टवान्। सा तं विहस्य अभाषत- “हे मुने! न अहं बलाका अस्मि” इति। तत् आकर्ण्य विस्मितः मुनिः “इदं कथं (x)________ चिन्तयन् तत्रैव उपाविशत्।

मञ्जूषा

कस्मिंश्चित्, ज्ञातम्, तरुच्छायायाम्, पतिसेवाम्, कोपदृष्ट्या, महातपा, बलाका, अहङ्कारी, भस्मीभूता, क्रोधेन
[ उत्तराणि- 1.महातपा 2.तरुच्छायायाम् 3.बलाका 4.क्रोधेन 5.भस्मीभूता 6.अहङ्कारी 7.कस्मिंश्चत् 8.पतिसेवाम् 9.कोपदृष्ट्या 10.ज्ञातम् ]

अथवा

मञ्जूषायाः उपयुक्तपदानि गृहीत्वा गुरुशिष्ययोः मध्ये क्रीडायाः विषये संवादं पूरयत।

अध्यापकः  –  प्रवीण! ________________ ?

प्रवीणः   –  हे गुरो ! अहम् अधुना किमपि न करोमि।

अध्यापकः  –  तर्हि गच्छ। ________________।

प्रवीणः    –  मम क्रीडने रुचिः नास्ति। अतः अहं न क्रीडामि।

अध्यापकः  –  ________________।

प्रवीणः    –  यदि अहं क्रीडायां ध्यानं दास्यामि तर्हि मम अध्ययनं बाधितं भविष्यति।

अध्यापकः  –  एतद् समीचीनं नास्ति। ________________। अल्पसमयः अपि शरीरस्य बहुलाभम् प्रदास्यति।

प्रवीणः    –  बाढ़म् श्रीमान् ! ________________।

अध्यापक:  –  बहुशोभनम् ! आयुष्मान् भव।

मञ्जूषा

क्रीडायै स्वल्पसमयम् एव प्रयच्छ।
तव मित्राणि तत्र क्रीडाङ्गणे क्रीडन्ति, तैः सह क्रीड।
त्वम् अत्र किं करोषि?
इतः आरभ्य अहं कञ्चित् समयं क्रीडायै अपि दास्यामि।
स्वस्थशरीरस्य स्वस्थमनसः च कृते क्रीडायाः अस्माकं जीवनं महती आवश्यकता भवति।
[ उत्तराणि- 1.त्वम् अत्र किं करोषि? 2.तव मित्राणि तत्र क्रीडाङ्गणे क्रीडन्ति, तैः सह क्रीड। 3.क्रीडायै स्वल्पसमयम् एव प्रयच्छ। 4.स्वस्थशरीरस्य स्वस्थमनसः च कृते क्रीडायाः अस्माकं जीवनं महती आवश्यकता भवति। 5.इतः आरभ्य अहं कञ्चित् समयं क्रीडायै अपि दास्यामि। ]

‘ग’ भागः – अनुप्रयुक्तव्याकरणम् (25 अङ्काः)

प्रश्न5. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिसन्धिच्छेदं वा कुरुत। (केवलं प्रश्नचतुष्टयम्) 1×4=4अंक
(i) सदाचारस्यैव संसारे महत्त्वं वर्तते।
(ii) षडेते पाठका गुणा: सन्ति।
(iii) देवराजः शक्रोSहम् अस्मि।
(iv) धीर:+षष्ठ: आसीत्।
(v) शिष्या:+एते अवधानेन पठन्ति।
[ उत्तराणि- (i)सदाचारस्य+एव (ii)षट्+एते (iii)शक्रः+अहम् (iv)धीरष्षष्ठः (v)शिष्या एते ]
प्रश्न6. अधोलिखितवाक्येषु रेखाड्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्ट्यम्) 1×4=4अंक

(i) विद्यासमम् चक्षुः नास्ति।

(अ) विद्यया समम्(ब) विद्येन समम्(स) विद्यायाः समम्

(ii) तस्य वचनम् अश्रद्धेयम् अस्ति।

(अ) न अश्रद्धेयम्(ब) न श्रद्धेयम्(स) श्रद्धेयम् न

(iii) तत्र युधिष्ठिरः च भीमः च दृश्यते।

(अ) युधिष्ठिरभीमाः(ब) युधिष्ठिरौ(स) युधिष्ठिरभीमौ

(iv) राजहंसः पक्षिराजः भवति।

(अ) पक्षिषु राजा(ब) पक्षणः राजा(स) पक्षिणाम् राजा

(v) ये परिश्रमं कुर्वन्ति ते निर्विघ्नं जीवन्ति।

(अ) विघ्नैः सहितम्(ब) विघ्नानाम् अभावः(स) विघ्नम् अतिक्रम्य
[ उत्तराणि- i. अ ii. ब iii. स iv. स v. ब ]
प्रश्न7. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत। (केवलं प्रश्नचतुष्टयम्)   1×4=4अंक

(i) पृथिव्याः गुरु + त्व सर्वे जानन्ति।

(क) गुरुता    (ख) गुरुत्वम्      (ग) गुरुत्वता

(ii) छात्राः गुरुवन्दनां कुर्वन्ति।

(क) वन्दन+टाप्     (ख) वन्दना+तल्      (ग) वन्दन+आ

(iii) बुद्धिः बलवती सदा।

(क) बलवत्+ङीप्    (ख) बलवत्+टाप्     (ग) बलवत्+मतुप्

(iv) विद्वांसः एव लोकेऽस्मिन् चक्षुष्+मतुप् प्रकीर्तिताः।

(क) चक्षुमन्तौ     (ख) चक्षुष्मन्तः      (ग) चक्षुमान् 

(v) परश्वः वयम् ऐतिहासिकानि स्थलानि द्रष्टुं गमिष्यामः।

(क) इतिहास+इक् (ख) इतिहास+तल्     (ग) इतिहास+ठक्

[ उत्तराणि– (i) ख (ii) क (iii) क (iv) ख (v) ग ]

प्रश्न8. वाच्यानुसारम् उचितपदेन रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत। (केवलं प्रश्नत्रयम्) 1×3=3अंक

(i) सुरभिः – किं त्वं अद्य समाचारपत्रे समाचारान् ________।

(ii) सुगन्धा- आम् मया अद्य ________ पठयन्ते।

(iii) सुरभि:- ________ अपि प्रतिदिनं समाचारं पठामि।

(iv) सुगन्धा– ________ तु दूरदर्शने अपि दृश्यते।

मञ्जूषा- [मया, पठसि, अहम्, समाचाराः]

[ उत्तराणि– (i)पठसि, (ii)समाचाराः, (iii)अहम्, (iv)मया ]

प्रश्न9. प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत। (केवलं प्रश्नत्रयम्)   1×3=3अंक

(i) श्यामः प्रातः (5.30)________ वादने दिनचर्यायाः आरम्भं करोति।

(ii) सः (6.15)________ वादने स्नानम् करोति।

(iii) पश्चात् सः (6.45)________ वादने प्रातराशं करोति।

(iv) तदनन्तरं (8.00)________ वादने विद्यालयं गच्छति।

[ उत्तराणि– (i) सार्धपञ्च (ii) सपादषड् (iii) पादोनसप्त (iv) अष्ट ]

प्रश्न10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) 1×4=4अंक

(i) अहम् _______ अत्र वृष्टेः अभिनन्दनं करोमि।

(ii) अहमेव शीतले जले स्थितप्रज्ञः _______ तिष्ठामि।

(iii) यथा चित्ते अवक्रता _______ यदि वाचि भवेत्।

(iv) सूपकाराणां मेषेण सह एषः कलहः _______ भवतां विनाशकारण भविष्यति।

(v) श्रमेण सः शनैः _______ प्रभूतं धनम् अर्जितवान्।

मञ्जूषा- ( एव, शनैः, नूनम्, इव, तथा )

[ उत्तराणि– (i) एव (ii) इव (iii) तथा (iv) नूनम् (v) शनैः ]

प्रश्न11. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितं पदं चित्वा वाक्यानि पुनः लिखत। (केवलं प्रश्नत्रयम्) 1×3=3अंक

(i) भवान् फलं खाद

(क) खादसि     (ख) खादन्तु      (ग) खादतु

(ii) वृक्षाणि हरिताः सन्ति।

(क) वृक्षान्      (ख) वृक्षाः      (ग) वृक्षौ

(iii) इयम् मम पुस्तकम् अस्ति।

(क) अयम्       (ख) इदम्       (ग) अस्य

(iv) पशवः ह्यः न आगमिष्यन्ति

(क) आगच्छत्    (ख) आगच्छति     (ग) आगच्छन्

[उत्तराणि– (i) ग (ii) ख (iii) ख (iv) ग]

‘घ’ भागः – पठितावबोधनम् (30 अङ्काः)

प्रश्न12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –

अस्ति कर्मपुरनाम्नि नगरे प्रच्छन्नभाग्यः नामधेयः कश्चित् कुमारः। बाल्ये वयसि विद्यापराङ्मुखः स केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः। एकदा स दुष्टबुद्धिना सार्धं कस्यचित् श्रेष्ठिनः गेहे धनहरणार्थं ग्रामान्तरं प्रस्थितः। अथ व्रजन्तौ तौ गर्तसङ्कुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम्-भो भो बालकाः ! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ? यदि कश्चित् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु कश्चित् उद्दण्डः बालकः उवाच-अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्?

अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत्- किम् इदं वचनं विशेषेण माम् एव लक्ष्यीकरोति? अहो! कुमार्गम् आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा। गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते । अद्य आरभ्य पापपथं त्यजामि इति विचिन्त्य मित्रं दुष्टबुद्धिम् अवदत् ‘सखे ! यदि मां मित्रस्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।’

अ. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1½x2=1अङ्क

(i) किं नाम्ना चौरेण सह चौर्यकर्मणि निरतः सञ्जातः?

(ii) कस्य धनहरणार्थं ग्रामान्तरं प्रस्थितः?

(iii) प्रतिहतान्तःकरणः कः अचिन्तयत्?

[ उत्तराणि(i)दुष्टबुद्धिः (ii)श्रेष्ठिनः (iii)प्रच्छन्नभाग्यः ]

आ. पूर्णवाक्येन लिखत। (केवलं प्रश्नद्वयम्) 1×2=2अङ्क

(i) उद्दण्डः बालकः किम् अवदत्?

(ii) प्रच्छन्नभाग्यः दुष्टबुद्धिम् किम् अवदत् ?

(iii) तौ गर्तसङ्कुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य किम् अवदताम्?

[ उत्तराणि(i) उद्दण्डः बालकः अवदत्- “अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ? अपि इदं श्रेयस्करम्?” इति। (ii) प्रच्छन्नभाग्यः दुष्टबुद्धिम् अवदत्- “सखे ! यदि मां मित्रस्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान्।” इति। (iii) तौ अवदताम्- “भो भो बालकाः ! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ?” इति। ]

इ. निर्देशानुसारम् उत्तरत। (केवलं प्रश्रद्वयम्) 1×2=2अङ्क

(i) ‘अवदताम्‘ क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?

(ii) ‘बालकः‘ इति पदस्य अत्र किं विशेषणपदं प्रयुक्तम्?

(iii) ‘सन्मार्गम्‘ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?

[ उत्तराणि(i)तौ (ii)उद्दण्डः (iii)सुपथम् ]

प्रश्न13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥

असंशयं महाबाहो मनो दुर्निग्रहं चलम्।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।

(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) 1/2×2=1अङ्क

(क) केन मनः वशीक्रियते?

(ख) प्रमाथि बलवद्दृढम् किम् अस्ति?

(ग)  महाबाहो कः अस्ति?

[ उत्तराणिक. अभ्यासेन, ख. मनः, ग. अर्जुनः ]

(आ) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) 1×2=2अङ्क

(क) मनसः निग्रहं कीदृशं इव अस्ति?

(ख) मनः कीदृशम् अस्ति?

(ग) केन मनः गृह्यते?

[ उत्तराणिक. मनसः निग्रहं वायोरिव सुदुष्करम् अस्ति। ख. मनः चञ्चलं बलवत् दृढं च अस्ति। ग. मनः अभ्यासेन वैराग्येण च गृह्यते। ]

(इ) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) 1×2=2अङ्क

(क) ‘अर्जुन’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?

(ख) ‘तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।’ इत्यत्र किं क्रियापदम् अस्ति?

(ग) ‘अचलम्’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम?

[ उत्तराणिक. कौन्तेय ख. मन्ये ग. चञ्चलम् ]

प्रश्न14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

अश्वथामा- रे दुष्ट भीम! त्वम् अद्य वध्योऽसि मया। (विलोक्य) अये कथं श्रीकृष्णार्जुनौ युधिष्ठिरश्च?

(स्वगतम्) इदानीं किं करवाणि? आः दृष्टम्, अस्मिन् विषमे समये ब्रह्मास्त्रम् एव मे शरणम्। मोचयामि अस्त्रम्। (ध्यानं नाटयति ब्रवीति च) इदम् अपाण्डवाय।

श्रीकृष्णः- पार्थ पश्य, पश्य। एतद् विमुच्यते ब्रह्मास्त्रं द्रोणपुत्रेण! त्रैलोक्यं दहन् इव प्रचण्डज्वालः अग्निः परितः प्रसरति। अर्जुन! अर्जुन! त्वमपि मुञ्च ब्रह्मास्त्रं एतत् निवारयितुम्।

अर्जुनः- नमः भगवते। स्वस्ति आचार्यपुत्राय, स्वस्ति मे भ्रातृभ्यः। उत्सृज्यते मया ब्रह्मास्त्रम्। अस्त्रम् अस्त्रेण शाम्यताम्।

(ततः प्रविशतः व्यासनारदौ)

नारदः-(व्यासं प्रति) पश्यतु भवान्। कोऽयम् अनर्थः क्रियते एताभ्यां वीराभ्याम्। समन्तात् वर्धमानाः प्रचण्डानलशिखाः आकाशं लिहन्ति इव। गगनात् सहस्रशः उल्काः भूमौ पतन्ति। कम्पते खलु सपर्वत-वन-द्रुमा सकला मही। पवनः स्तब्धः जातः। सहस्रांशुः न भासते। शैलाः विदीर्यते। कथमपि एतौ निवारणीयौ, अन्यथा सकलं जगद् ध्वस्तं भविष्यति।

(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1/2×2=1अङ्क

(क) रे दुष्ट भीम! इति कः अवदत्?

(ख) कौ प्रविशतः?

(ग) कः न भासते?

[ उत्तराणिक. अश्वत्थामा ख. व्यासनारदौ ग. सहस्रांशुः ]

(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 1×2=2अङ्क

(क) अर्जुनः किम् अवदत्?

(ख) द्रोणपुत्रेण किं विमुच्यते?

(ग) गगनात् किं पतन्ति?

[ उत्तराणिक. नमः भगवते। स्वस्ति आचार्यपुत्राय, स्वस्ति मे भ्रातृभ्यः। उत्सृज्यते मया ब्रह्मास्त्रम्। ख. द्रोणपुत्रेण ब्रह्मास्त्रं विमुच्यते। ग. गगनात् सहस्रशः उल्काः पतन्ति। ]

(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 1×2=2अङ्क

(क) ‘पवनः स्तब्धः जातः‘ इत्यस्मिन् वाक्ये कर्तृपदं किम् अस्ति?

(ख) ‘वर्धमानाः प्रचण्डानलशिखाः आकाशं लिहन्ति इव‘ इत्यत्र किं विशेष्यपदं प्रयुक्तम्?

(ग) ‘पर्वताः’ इत्यर्थे गद्यांशे किं पर्यायपदं प्रयुक्तम्?

[ उत्तराणिक. पवनः ख. प्रचण्डानलशिखाः ग. शैलाः ]

प्रश्न15. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (केवलं प्रश्नपञ्चकम्) 1×5=5अङ्क
(i) गगनात् सहस्रशः उल्काः भूमौ पतन्ति।
(ii) शैलाः विदीर्यते
(iii) नमः भगवते
(iv) एतद् मनुष्येषु न प्रयोक्तव्यम्।
(v)  वनौषधिनां अयं स्रोतः एव अस्ति।
(vi) अरुणाचलप्रदेशे पंचाशदधिकाः नद्यः प्रवहन्ति।
[ उत्तराणिi.कस्मात् ii.के iii.कस्मै iv.केषु v.केषाम् vi.कुत्र/कस्मिन् ]
प्रश्न16. मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत- 1/2×4=2अङ्क

 यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।

 कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥

अन्वयः-येन (i) _________ अपि यत् (ii) _________ तस्य (iii) _________ येन कर्तुं शक्यः भवेत. सः (iv) _________ इति ईरितः।

मञ्जूषा- (प्रोक्तं, विवेकः, केन, तत्त्वार्थनिर्णयः)

अथवा

निम्नलिखितश्लोकस्य भावार्थं मञ्जूषायाः उपयुक्तशब्दैः पूरयत-

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।

पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

भावार्थः – बाल्ये काले स्वपुत्राय (i) __________ दातुं पिता अतिकष्टं सहमानः सर्वविधं तपः कृत्वा अपि सः (ii) __________ शिक्षयितुं यतते। यदि तस्य पुत्रः एतन्मात्रम् एव स्मरेत् यत् (iii) __________ तस्मै (विद्यादानाय) महत् तपः अकरोत्, इयम् (iv) __________ एव तस्य पुत्रस्य कृतज्ञता प्रकटयति।

मञ्जूषा- (उक्तिः, स्वसन्ततिं, पिता, विद्याधनं)

[ उत्तराणिअन्वयः i.केन ii.प्रोक्तं iii.तत्त्वार्थनिर्णयः iv.विवेकः

भावार्थः i.विद्याधनं ii.स्वसन्ततिं iii.पिता iv.उक्तिः ]

प्रश्न17. रेखाङ्कितपदेषु प्रसङ्गानुसारम् उचितम् अर्थचयनं कुरुत- (केवलं प्रश्नचतुष्टयम्) 1×4=4अङ्क

(i) यः इच्छति आत्मनः श्रेयः

(अ) धनम्      (ब) कल्याणम्      (स) गृहम्

(ii) झटिति एव क्षेत्रं गतः।

(अ) शीघ्रम्       (ब) सहसा        (स) विलम्बेन

(iii) पवनः स्तब्धः जातः।

(अ) प्रदूषितम्      (ब) आरब्धः      (स) स्थगित:

(iv) विपुलाः च अत्र वन सम्पदा।

(अ) पृथ्वी      (ब) विशाला          (स) स्थूला

(v) काकस्य गात्रं यदि काञ्चनस्य।

(अ) गोत्रम्     (ब) कुटुम्बम्        (स) शरीरम्

[ उत्तराणि (i) ब (ii) अ (iii) स (iv) ब (v)स ]

प्रश्न18. मञ्जूषायाः सहायतया पाठाधारितकथापूर्तिं कुरुत- 1/2×8=4अङ्क

कस्मिंश्चित् नगरे चन्द्रः नामकः एकः (i)________ अवसत्। तत्रैव राजगृहे बालवाहनयोग्यम् मेषयूथमपि आसीत्। तस्य एकः मेषः (ii)________  लोलुपतावशात् दिवारात्रौ महानशं प्रविश्य तत्र यद् वस्तु पश्यति तदेव खादति। ततः (iii)________ यत्किञ्चित् काष्ठं मृण्मयकांस्यं वा पश्यन्ति, तेन एव शीघ्रं ताडयन्ति स्म। मेषस्य (iv)________ च कलहं दृष्ट्वा बुद्धिमान् वानरयूथपतिः अचिन्तयत्- “एतेषां कलहः वानराणां हिताय नास्ति।” एवं चिन्तयित्वा सः सर्वान् (v)________ आहूय एकान्ते अवदत्- “भोः बान्धवाः! प्रतिदिनं मेषेण सह सूपकाराणाम् अयं कलहः नूनम् एकदा अस्माकं (vi)________ कारणं भविष्यति अतः वयत् एतत् राजभवनम् त्यक्त्वा वनं गच्छामः। तस्य इमं (vii)________ अश्रद्धेयं मत्वा रसनास्वादलुब्धाः वानराः अटव्याम् गन्तुं न अमन्यन्त। तदा वानरयूथपः साश्रुनयनः भूत्वा अवदत्– “जिह्वास्वादस्य वशे भूत्वा यूयम् अस्य सुखस्य (viii)________ न जानीथ, अहं वनं गच्छामि।”

मञ्जूषा

परामर्शं, वानरान्, भूपतिः, कुपरिणामं, विनाशस्य, जिह्वायाः, सूपकाराणां, पाचकाः
[उत्तराणि– i.भूपतिः ii.जिह्वायाः iii.पाचकाः iv.सूपकाराणां v.वानरान् vi.विनाशस्य vii.परामर्शं viii.कुपरिणामं ]
admin
About the author
admin

Leave a Comment

Index
Share This