CLASS-11 CBSE SANSKRIT CORE QUESTION PAPER

Class-11 Sanskrit Question Paper With Answer Key | CBSE Mid-Term Examinations

सीबीएसई कक्षा ग्यारहवीं का संस्कृत कोर विषय का मध्यावधि-परीक्षा प्रश्नपत्र यहाँ दिया जा रहा है। इस प्रश्नपत्र के समाधानों की Answer Key डाउनलोड करने के लिये प्रश्नपत्र के बाद दिये गये लिंक पर क्लिक करें।

विषयः संस्कृतम् (कोर्) Subject : Sanskrit Core (322)

अधिकतम अंक Maximum Marks : 80

‘क’-भागः (अपठित-अवबोधनम्) 10 अङ्काः

प्रश्न 1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानामुत्तराणि संस्कृतेन लिखत – (10 अङ्क)

संस्कृतसाहित्यं परमसमृद्धं वर्तते। अस्मिन् विलक्षणप्रतिभायाः स्वामिनः अनेके महाकाव्यकाराः, नाटककाराः गीतिकाराः च सन्ति। परं तेषु कालिदासः मम सर्वाधिकः प्रियः। असौ नाटककारः, महाकाव्यकारः गीतिकारश्च अस्ति। एतानि त्रीणि रूपाणि अन्यस्मिन् कस्मिन्नपि कवौ न लभ्यन्ते। कालिदासस्य त्रीणि नाटकानि सन्ति। एषु अभिज्ञानशाकुन्तलं परमप्रसिद्धं नाटकं वर्तते। एतत्-सम्बन्धे विद्वांसः एवं कथयन्ति “काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला”। कालिदासस्य द्वे गीतिकाव्ये द्वे एव च महाकाव्ये। मेघदूतं गीतिकाव्येषु शिरोरत्नं मन्यते। मेघदूतसम्बन्धे एतत् कथ्यते “मेघे माघे गतं वयः”। रघुवंशं महाकाव्येषु अद्वितीयं स्थानं भजते। रघुवंशविषये निम्नाङ्कितं कथनं पठनीयम् “कः इह रघुकारे न रमते।” कालिदासः रससिद्धः कविः अस्ति। श्रृंगारे असौ अद्वितीयः खलु। वैदर्भीरीतिप्रयोगे अपि असौ अनुपमः। ‘उपमा कालिदासस्य’ इति कथनं तु प्रसिद्धम् एव। प्रकृतेः यादृशं चारुचित्रणं कालिदासेन कृतं तादृशम् अन्येन केनापि कविना न कृतम्। एभिः गुणैः एव कालिदासः सहृदयानां मनांसि मोहयति।

अ. एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)             (1×2=2)

(i) संस्कृतसाहित्यं कीदृशं वर्तते ?

(ii) मेघदूतं केषां शिरोरत्नं मन्यते ?

(iii) महाकाव्येषु किम् अद्वितीयं स्थानं भजते ?

आ. पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)         (2×2=4)

(i) वैदर्भीरीति-प्रयोगे कः अनुपमः?

(ii) कुत्र वयः गतम् ?

(iii) रघुवंशंविषये किं कथनं पठनीयम् ?

इ. अनुच्छेदस्य समुचितं शीर्षकं लिखत।            (1×1=1)

ई. भाषिकं कार्यम् (केवलं प्रश्नत्रयम्)                (1×3=3)

(i) “असौ” इति सर्वनामपदं कस्मै प्रयुक्तम् ?

क. गीतिकाव्यायख. कालिदासायग. रघुवंशायघ. मेघदूताय

(ii) “बहवः” इत्यस्य स्थाने अत्र किं पदं प्रयुक्तम् ?

क. महाकाव्यकाराःख. नाटककाराःग. गीतिकाराःघ. अनेके

(iii) “मूर्खाः” इत्यत्र अस्य पदस्य किं विलोमपदं प्रयुक्तम् ?

क. विद्वांसःख. सहृदयाःग. जनाःघ. गीतिकाराः

(iv) “मेघे माघे गतं वयः” अस्मिन् वाक्ये क्रियापदं किम् ?

क. मेघेख. माघेग. गतम्घ. वयः

Click here to view/download the PDF of Answer key

‘ख’-भागः (रचनात्मकं कार्यम्) 15 अङ्काः

प्रश्न 2. – पत्रम्

भवान् अनुरागः अम्बालानगरे छात्रावासे एकादशकक्षायां पठति। भवतः पितृमहोदयः रोहतकनगरे वसति। शैक्षिक-भ्रमणार्थम् अनुमतिहेतोः पितरं प्रति अधः लिखितं पत्रं मञ्जूषायाम् दत्तैः पदैः पूरयत।     (5अङ्क)

छात्रावासः

(i)__________

पूज्याः (ii)___________

सादरं (iii)___________

अत्र कुशलं तत्रास्तु। निवेदद्यामि यत् अस्माकं द्वितीयसत्रीया (iv)___________ समाप्ता। अतः सर्वे छात्राः अध्यापकैः सह (v)___________ अजन्ता-एलोरा-गुहाः गमिष्यन्ति। भवतः (vi)___________ अनिवार्या अस्ति। पत्रेण तत् सम्प्रेष्य अनुगृह्णन्तु। पञ्चशतं (vii)___________ अपि प्रेषणीयानि। अनुजाय (viii)___________। ज्येष्ठाय नमो नमः।

भवताम् (ix)___________ पुत्रः

(x)___________

मञ्जूषा

प्रणामाःपरीक्षाअनुमतिःशैक्षिकभ्रमणयात्रायाम्अम्बालानगरात्
पितृमहाभागाःअनुरागःस्नेहःरूप्यकाणिआज्ञाकारी

प्रश्न 3. मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत-     (5 अङ्क)

एकस्य (i)___________ चत्वारः पुत्राः आसन्। ते चत्वारोऽपि (ii)___________ परस्परं (iii)___________ कुर्वन्ति स्म। तेषां चतुर्णा कलहं (iv)___________ सः श्रेष्ठी दुःखी आसीत्। (v)___________ सः शुष्ककाष्ठानि एकीकृत्य तानि रज्ज्वा (vi)___________ पुत्राणां समक्षं अस्थापयत्। तान् (vii)___________ अवदत् च” एतानि काष्ठानि त्रोटयत”। (viii)___________ एकः अपि तानि त्रोटयितुं समर्थः नाभवत्। तदा सः पृथक्कृत्य काष्ठानि पुत्राणां समक्षं पुनः (ix)___________ । सर्वे पुत्राः सरलतया सर्वाणि काष्ठानि अत्रोटयन्। सः पुत्रान् अकथयत्-इत्थमेव यूयमपि चेत् परस्परं मिलित्वा निवत्स्यथ तर्हि कोऽपि युष्मान् (x)___________ समर्थः न भविष्यति। यतो हि “संघे शक्तिः कलौ युगे।”

मञ्जूषा

एकदाभ्रातरःकलहंदृष्ट्वाबद्ध्वा
श्रेष्ठिनःहन्तुम्पुत्रेषुपुत्रान्अस्थापयत्

प्रश्न 4. अधोलिखितसंवादे रिक्तस्थानानि पूरयन्तु।           (1×5=5अङ्क)

गीता – कविते! एषु ग्रीष्मावकाशेषु भवती किं करोति?

कविता – (i) ______________________________।

गीता – नृत्यस्य अभ्यासार्थं भवती कुत्र गच्छति?

कविता – (ii) ______________________________।

गीता – नृत्याभ्यासे भवती कीदृशं नृत्यम् अभ्यस्यति?

कविता – (iii) ______________________________।

गीता – किं भरतनाट्यं दक्षिणभारतस्य नृत्यं वर्तते?

कविता (iv) ______________________________।

गीता – अग्रिमग्रीष्मावकाशेषु अहमपि अस्य नृत्यस्य अभ्यासं करिष्यामि।

कविता – (v) ______________________________।

‘ग’-भागः (अनुप्रयुक्तं व्याकरणम्) 20 अङ्काः

प्रश्न 5. अधोलिखित-वाक्येषु रेखाङ्कितपदानां समुचितं सन्धिं सन्धिच्छेदं वा कुरुत (केवलं प्रश्नत्रयम्) (1×3=3अङ्क)

(i) प्रापयेन्महतीं श्रियम्।

(ii) न वृत्तिर्न च बान्धवाः।

(iii) ममैव जायमानस्य प्रसववेदनया मे जननी लोकान्तरमगमत्।

(iv) कोऽप्रियः प्रियवादिनाम्।

प्रश्न 6. अधोलिखित-वाक्येषु रेखाङ्कितपदानां समुचितं संयोजितं विभाजितं वा प्रकृतिं प्रत्ययं प्रदत्तविकल्पेभ्यः चिनुत- (केवलं प्रश्नत्रयम्) (1×3=3अङ्क)

(i) कथञ्चिद अभिविज्ञाय विवर्णवदनं कृशम्।

क. अभि+वि+ज्ञा+तुमुन्ख. वि+अभि+ज्ञा+ल्यप्
ग. अभि+वि+ज्ञा+ल्यप्घ. अभि+वि+ज्ञा+क्तवतु

(ii) इति तापसीं वि+लोक+ल्यप् हसति।

क. विलोक्यख. विलोकयित्वाग. विलोकितःघ. विलोकयितुम्

(iii) अपगतासूंश्च कृत्वा क्षितावपातयत्।

क. कृ+क्तख. कृ+क्त्वाग. कृ+त्वाघ. कृ+क्तवतु

(iv) वाचामात्रेण विरमयितुम्

क. वि+रम्+णिच्+ तुमुन्ख. वि+रम्+तुम्
ग. वि+रम्+कत्वाघ. वि+रम्+णिच्+म्

प्रश्न 7. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितशब्दं चित्वा रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्)        (1×3=3अङ्क)

(i) तस्यैव एकस्मिन् __________ निवसतः।

क. कोटरम्ख. कोटरस्यग. कोटरेणघ. कोटरे

(ii) ___________  ते गणयिष्ये।

क. दन्तेनख. दन्तान्ग. दन्तस्यघ. दन्ताय

(iii) कोऽतिभारः ____________

क. समर्थानाम्ख. समर्थायग. समर्थाभ्याम्घ. समर्थेन

(iv) अमन्त्रितः _______  राष्ट्रं न परिधावति।

क. मन्त्रेणख. मन्त्रायग. मन्त्रःघ. मन्त्रस्य

प्रश्न 8. अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः समुचितक्रियापदं चित्वा रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1×3=3अङ्क)

(i) त्वं सहस्राणां मूर्खाणाम् एकं पण्डितम् _________

क. इच्छामःख. इच्छतिग. इच्छसिघ. इच्छन्ति

(ii) जीवलोकस्य षड् सुखानि __________

क. भवतिख. भवन्तिग. भवसिघ. भवामः

(iii) अहम् अनेनैव ___________

क. क्रीडिष्यसिख. क्रीडिष्यामःग. क्रीडिष्यामिघ. क्रीडिष्यन्ति

(iv) तातः मद्रक्षणाकुलः ___________

क. अभवःख. अभवत्ग. अभवम्घ. अभवन्

प्रश्न 9. समुचितम् उपपदविभक्तिरूपं लिखत। (केवलं प्रश्नत्रयम्)           (1×3=3अङ्क)

(i) _________ सह तेनैव पथा उपागमत्। (मुनिकुमार)

(ii) धिक् ________ अकरुणमतिनिष्ठुरमकृतज्ञम्। (अस्मत्)

(iii) विनाशे ________ सति त्यागः वरम्। (नियत)

(iv) यस्मिन् ______ न सम्मानो न वृत्तिर्न च बान्धवाः। (देश)

प्रश्न 10. अधोलिखितवाक्येषु वाच्यानुसारं रिक्तस्थानानि पूरयत। (केवलं प्रश्नद्वयम्)        (1×2=2अङ्क)

(i) केसरिणी ___________ लङ्घयिष्यति।

क. बालेनख. बालम्ग. बालायघ. बालात्

(ii) ________ सर्वदमन इति कृतनामधेयोऽसि।

क. ऋषिजनख. ऋषिजनायग. ऋषिजनेनघ. ऋषिजनम्

(iii) त्वं क्षिप्रमारभसे कर्म न _________

क. दीर्घयसिख. दीर्घयामिग. दीर्घयतिघ. दीर्घयन्ति

प्रश्न 11. रेखांकितस्य अशुद्धपदस्य स्थाने प्रदत्तविकल्पेभ्यः शुद्धपदं चित्वा लिखत। (केवलं प्रश्नत्रयम्)        (1×3=3अङ्क)

(i) त्वं सहस्राणां मूर्खाणाम् एकं पण्डितम् इच्छामः

क. इच्छतिख. इच्छन्तिग. इच्छसिघ. इच्छथः

(ii) जीवलोकस्य षड् सुखं भवन्ति।

क. सुखेख. सुखानिग. सुखायघ. सुखात्

(iii) सः खलु भीतः अस्मि।

क. त्वम्ख. अहम्ग. तौघ. ताः

(iv) अपत्यनिर्विशेषाणि सत्त्वं विप्रकरोषि।

क. सत्त्वायख. सत्त्वेनग. सत्त्वानिघ. सत्त्वम्

‘घ’-भाग-1 (पठितांशावबोधनम् ) 25 अङ्काः

प्रश्न 12. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत-  (5 अङ्क)

एकदा तु प्रत्यूषसि सहसैव तस्मिन् वने मृगयाकोलाहलध्वनिरुदचरत्। आकर्ण्य तमहमुपजातवेपथुरर्भकतया भयविह्वलः पक्षपुटान्तरमविशम्। अचिराच्च प्रशान्ते तस्मिन् क्षोभितकानने मृगयाकलकले पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य किमिदमिति दिदृक्षुरभिमुखमापतच्छबरसैन्यमद्राक्षम्। मध्ये च तस्य प्रथमे वयसि वर्तमानं शबरसेनापतिमपश्यम्। आसीच्च मे मनसि ‘अहो मोहप्रायमेतेषां जीवितम्। आहारो मधुमांसादिः, श्रमो मृगया, शास्त्रं शिवारुतं, प्रज्ञा शकुनिज्ञानम्। यस्मिन्नेव कानने निवसन्ति तदेवोत्खातमूलमशेषतः कुर्वन्ति।

अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)  (½x2=1अङ्क)

(i)    मृगयाकोलाहलध्वनिः कुत्र उदचरत्?

(ii)   कः पितुः पक्षपुटान्तरमविशत् ?

(iii)  शबराणां कीदृशं जीवितम् ?

आ. पूर्णवाक्येन उत्तरत– (केवलं प्रश्नद्वयम्) (1×2=2अङ्क)

(i)    शुकशावकः कुत्रस्थः शिरोधरां प्रसार्य शबरसैन्यमद्राक्षीत् ?

(ii)   शुकशावकः सैन्यमध्ये कम् अपश्यत् ?

(iii)  शबराणां आहारः कः?

इ. भाषिकं कार्यम्- (केवलं प्रश्नद्वयम्) (1×2=2अङ्क)

(i)    ‘भयव्याकुलः’ इत्यस्य पदस्य अत्र किं पर्यायपदं प्रयुक्तम् ?

(ii)   “अहम् उपजातवेपथुः” अत्र “अहम्” सर्वनामपदं कस्मै प्रयुक्तम् ?

(iii)  “सायंकाले” अस्य पदस्य अत्र किं विलोमपदं प्रयुक्तम् ?

प्रश्न 13. अधोलिखितं पद्यं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत- (5अङ्क)

काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम्।

तथा सत्सन्निधानेन मूर्खा याति प्रवीणताम् ।।

कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः।

सर्वेषां मूर्ध्नि वा तिष्ठेत् विशीर्येत वनेऽथवा ।।

अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (½x2=1अङ्क)

(i)    कः मारकतीं द्युतिं धत्ते?

(ii)   केन मूर्खः प्रवीणतां याति?

(iii)  कस्य इव मनस्विनः वृत्तिः भवति?

आ. पूर्णवाक्येन उत्तरत– (केवलं प्रश्नद्वयम्) (1×2=2अङ्क)

(i)    मनस्विनः कीदृशी द्वयी वृत्तिः भवति?

(ii)   सर्वेषां मूर्ध्नि कः तिष्ठेत्?

(iii)  मनस्वी कुत्र विशीर्येत?

इ. भाषिकं कार्यम्– (केवलं प्रश्नद्वयम्) (1×2=2अङ्क)

(i)    “कान्तिम्” इत्यस्य पदस्य अत्र किं पर्यायपदं प्रयुक्तम्?

(ii)   “पण्डितः” पदस्य अत्र किं विलोमपदं प्रयुक्तम्?

(iii)  “सर्वेषां मूर्ध्नि वा तिष्ठेत्” अत्र क्रियापदं किम्?

प्रश्न 14. अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत-  (5अङ्क)

बालः – अनेनैव तावत् क्रीडिष्यामि। (इति तापसीं विलोक्य हसति)

तापसी – भवतु। न मामयं गणयति। (राजानमवलोक्य) भद्रमुख ! मोचयानेन बाध्यमानं बालमृगेन्द्रम्।

दुष्यन्तः – आकारसदृशं चेष्टितमेवास्य कथयति। (आत्मगतम्)

अनेन कस्यापि कुलाङ्‌कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम्।

का निर्वृत्तिं चेतसि तस्य कुर्याद् यस्यायमङ्कात् कृतिनः प्ररूढः ।।

(बालमुपलालयन्) प्रकाशम्

दुष्यन्तः – अथ कोऽस्य व्यपदेशः?

तापसी – पुरुवंशः।

अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)          (½x2=1अङ्क)

(i)    भद्रमुखः कः?

(ii)   बाध्यमानं कं मोचय?

(iii)  मम केषु सुखम्?

आ. पूर्णवाक्येन उत्तरत– (केवलं प्रश्नद्वयम्)      (1×2=2अङ्क)

(i)    बालस्य कः व्यपदेशः?

(ii)   दुष्यन्तः आत्मगतं किं कथयति?

(iii)  बालः कां विलोक्य हसति?

इ. भाषिकं कार्यम्- (केवलं प्रश्नद्वयम्) (1×2=2अङ्क)

(i)    “शरीरेषु” इत्यस्य अत्र कि पर्यायपदं प्रयुक्तम्?

(ii)   “चेष्टितमेवास्य कथयति” अत्र क्रियापदं किम्?

(iii)  “दुःखम्” अस्य पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?

प्रश्न 15. अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत-          (1×3=3अङ्क)

काचः काञ्चनसंसर्गाद् धत्ते मारकतीं दयुतिम्।

तथा सत्सन्निधानेन मूर्खा याति प्रवीणताम् ।।

भावार्थः- यथा सुवर्णस्य सङ्गात् (i) ________ अपि प्रकाशितः भवति तथैव सज्जनस्य (ii) _________ मूर्खः जनः अपि (iii) _________ गच्छति।

मञ्जूषा

नैपुण्यम् , काचः , सङ्गेन

अथवा

प्रदत्त-भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत-    (1×3=3अङ्क)

क. मन्त्रितो मन्त्रो राष्ट्रं न परिधावति।

  (i) मन्त्रिणः राष्ट्रात् बहिः गच्छन्ति ।

  (ii) मन्त्रितः राष्ट्रात् बहिः गच्छति।

  (iii) सुरक्षिता मन्त्रणा राष्ट्रात् बहिः न प्रसरति।

ख. कोऽप्रियः प्रियवादिनाम्।

  (i) ये जनाः प्रियवादिनः भवन्ति, तेषां कृते कोऽपि अप्रियः न भवति।

  (ii) प्रियवादिनः सदा प्रियं वदन्ति।

  (iii) प्रियवादी कोऽपि अप्रियः जनः भवति।

ग. सन्निमित्तं वरं त्यागो विनाशे नियते सति।

  (i) विनाशे सति त्यागः न करणीयः।

  (ii) त्यागेन सर्वेषां विनाशः भवति।

  (iii) यदि विनाशः नियतः अस्ति तर्हि सन्निमित्ताय त्यागः हितकरः।

प्रश्न 16. अधोलिखित-अन्वये रिक्तस्थानानि पूरयत-         (1×3=3अङ्क)

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः।

न च विद्यागमः कश्चित् वासस्तत्र न कारयेत् ।।

अन्वयः यस्मिन् (i) ______________  न सम्मानः, न (ii) ______________  , न च बान्धवाः न च (iii)______________ विद्यागमः तत्र वासः न कारयेत्।

प्रश्न 17. ‘क’ स्तम्भस्य वाक्यांशस्य ‘ख’ स्तम्भस्य वाक्यांशेन सह मेलनं कुरुत-          (½x4=2अङ्क)

स्तम्भःस्तम्भः
(i)    निद्रा तन्द्रा भयं क्रोधःक.   परिष्वज्य च राघवम्।
(ii)   धनानि जीवितं चैवख.   आलस्यं दीर्घसूत्रता।
(iii)  ददर्श रामो दुर्दर्शंग.    परार्थे प्राज्ञ उत्सृजेत्।
(iv)  आघ्राय रामस्तं मूर्ध्निघ.    युगान्ते भास्करं यथा।

प्रश्न 18. अधोलिखितवाक्येषु रेखाङ्कितानां पदानां प्रसंगानुसारं शुद्धम् अर्थं चित्वा लिखत-  (केवलं प्रश्नचतुष्टयम्)    (½x4-2अङ्क)

(i)    एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।

(ii)   सर्वेषां मूर्ध्नि वा तिष्ठेत्।

(iii)  षड्दोषाः पुरुषेण हातव्या भूतिमिच्छता।

(iv) शकुन्तलावण्यं प्रेक्षस्व।

(v) पितुः अहमेव सूनुः अभवम्।

मञ्जूषा

पुत्रः , शिरसि , सौन्दर्यम् , ऐश्वर्यम् , बुद्धिमान्

‘घ’-भाग-II संस्कृतसाहित्येतिहासपरिचयः 10 अङ्काः

प्रश्न 19. संस्कृतभाषायाः उद्भवं विकासं च अधिकृत्य प्रदत्तान् प्रश्नान् उत्तरत (केवलं प्रश्नत्रयम्) (1×3=3अङ्क)

(i)    “संस्कृतम्” इति शब्दस्य व्युत्पत्तिं लिखत।

(ii)   साहित्यिकसंस्कृतस्य कौ द्वौ भेदौ?

(iii)  अष्टाध्यायी केन लिखिता?

(iv)  व्याकरणादिनियमैः परिष्कृता भाषा का?

प्रश्न 20. वैदिकं साहित्यम् अधिकृत्य प्रदत्तवाक्येषु मञ्जूषायाः साहाय्येन रिक्तस्थानपूर्ति कुरुत (केवलं प्रश्नचतुष्टयम्)         (1×4=4अङ्क)

(i) ऋग्वेदे  ______________  भवन्ति।

(ii) गुरोः समीपम् उपविश्य यद् ज्ञानं प्राप्यते, तद्  ______________  कथ्यते।

(iii) वेदाङ्गानि  ______________  भवन्ति।

(iv) वेदाः  ______________  सन्ति।

मञ्जूषा

उपनिषद् , षट् , चत्वारः , ऋचः

प्रश्न 21. रामायणं, महाभारतं पुराणानि च अधिकृत्य ‘क’ भागं ‘ख’ भागेन सह मेलयत- (केवलं प्रश्नत्रयम्)         (3अङ्क)

‘क’ भागः‘ख’ भागः
(i)    रामायणम्क.    महाभारतम्
(ii)   शतसाहस्रीसंहिताख.    अष्टादश
(iii)  पुराणानिग.     अनुष्टुप्छन्दः

इस प्रश्नपत्र के समाधान देखने व डाउनलोड करने के लिये नीचे दिये गये लिंक पर क्लिक करें-

CLICK HERE to view/download the PDF of Answer Key

admin
About the author
admin

Leave a Comment

Index
Share This